Dataset Viewer
Auto-converted to Parquet Duplicate
sloka
stringlengths
30
701
prose
stringlengths
30
741
कृत्वा निश्शब्दमेकाग्रा श्श्रुण्वन्तु हरयो ममतत्वं सङ्कीर्तयिष्यामि यथा जानामि मैथिलीम्
हरयः मैथिलीम् यथा जानामि तत्वम् सङ्कीर्तयिष्यामि निश्शब्दम् कृत्वा एकाग्राः मम श्रुण्वन्तु
कामं वा स्वयमेवाद्य तत्र मां नेतुमर्हसियत्रासौ पुरुषव्याघ्रः पुत्रो मे तप्यते तपः
वा पुरुषव्याघ्रः मे पुत्रो असौ यत्र तपः तप्यते तत्र स्वयमेव अद्य माम् कामम् नेतुम् अर्हसि
अथतान्सचिवांस्तत्रसर्वानाभाष्यरावणः सभांसन्नादयन् सर्वामित्युवाचमहाबलः जगत्सन्तापन्क्रूरोगर्हयन्राक्षसेश्वरः
अथ महाबलः जगत्सन्तापनः क्रूरः राक्षसेश्वरः रावणः तत्र सर्वान् सचिवान् आभाष्य सर्वाम् सभाम् संवादयन् गर्हयन् इति उवाच
तं मत्तमातङ्गविलासगामी गच्छन्तमव्यग्रमना महात्मा स लक्ष्मणो राघवमप्रमत्तो ररक्ष धर्मेण बलेन चैव
मत्तमातङ्गविलासगामी महात्मा सः लक्ष्मणः गच्छन्तम् राघवम् अप्रमत्तो अव्यग्रमनाः धर्मेण बलेन चैव ररक्ष
इतीव देवी बहुधा विलप्य सर्वात्मना राममनुस्मरन्तीप्रवेपमाना परिशुष्कवक्त्रा नगोत्तमं पुष्पितमाससाद
देवी इतीव बहुधा विलप्य सर्वात्मना रामम् अनुस्मरन्ती प्रवेपमाना परिशुष्कवक्त्रा पुष्पितम् नगोत्तमम् आससाद
अलम्बुसा मिश्रकेशी पुण्डरीकाऽथ वामनाउपानृत्यंस्तु भरतं भरद्वाजस्य शासनात्
अथ भरद्वाजस्य शासनात् अलम्बुसा मिश्रकेशी पुण्डरीका वामना भरतम् उपानृत्यन् तु
सर्वास्त्राणि भृशाश्वस्य पुत्रा: परमधार्मिका:कौशिकाय पुरा दत्ता यदा राज्यं प्रशासति
भृशाश्वस्य परमधार्मिका: पुत्रा: सर्वास्त्राणि यदा पुरा राज्यम् प्रशासति कौशिकाय दत्ता:
ओष्ठप्रकारैरपरा वक्त्रनेत्रैस्तथापराःसीतामाश्वासयामासुस्तर्जितां तेन रक्षसा
तेन रक्षसा तर्जिताम् ताम् सीताम् अपराः ओष्ठप्रकारैः तथा अपराः वक्त्रनेत्रैः आश्वासयामासुः
एवमुक्त्वाततस्तस्यजलक्लन्नेनपाणिना सुग्रीवस्यशुभेनेत्रेप्रममार्जविभीषणः
विभीषणः एवम् उक्त्वा ततः जलक्लिन्नेन पाणिना तस्यसुग्रीवस्य शुभे नेत्रे प्रममार्ज
श्रृत्वैवोपस्थितौ वीरौ कदायोध्या भविष्यतियशस्विनी हृष्टजना सूच्छ्रितध्वजमालिनी
वीरौ उपस्थितौ श्रुत्वैव यशस्विनी अयोध्या हृष्टजना सूच्छ्रितध्वजमालिनी कदा भविष्यति
कर्णवन्ति हि भूतानि विशेषेण तुरङ्गमाःयूयं तस्मान्निवर्तध्वं याचनां प्रतिवेदिताः
भूतानि कर्णवन्ति हि तुरङ्गमाः विशेषेण तस्मात् याचनाम् प्रतिवेदिताः यूयम् निवर्तध्वम्
जटायुषो यदि भ्राता श्रुतं ते गदितं मयाआख्या हि यदि जानासि निलयं तस्य रक्षसः
ते गदितम् मया श्रुतम् जटायुषः भ्राता यदि जानासि यदि तस्य रक्षसः निलयम् आख्याहि
सकृत्तुप्रहरेदानींदुर्भुद्धे किंविकत्थसे ततस्त्वांमामिकामुष्टिर्नयिष्यतियमक्षयम्
दुर्भुद्धे किंविकत्थसे इदानीम् सकृत् प्रहर ततः मामिकः मुष्टिः त्वाम् यमक्षयम् नयिष्यति
अथोपकार्यां जग्मुस्ते सभार्या रघुनन्दना:राजाऽप्यनुययौ पश्यंत्सर्षिसंघ स्सबान्धव:
अथ रघुनन्दना: सभार्या: उपकार्यां जग्मु: राजापि सर्षिसंघ: सबान्धव: पश्यन् अनुययौ
यदि पञ्चदशे वर्षे राघवः पुनरेष्यतिजह्याद्राज्यं च कोषं च भरतो नोपलक्षयते
राघवः पञ्चदशे वर्षे पुनः एष्यति यदि भरतः राज्यं च कोषं च जह्यात् नोपलक्ष्यते
तौ जाताश्वासौ राजपुत्रौ विदित्वा तच्चाभिज्ञानं राघवाय प्रदायदेव्या चाख्यातं सर्वमेवानुपूर्व्याद्वाचा सम्पूर्णं वायुपुत्त्र श्शशंस
वायुपुत्रः तौ राजपुत्त्रौ जाताश्वासौ विदित्वा तत् अभिज्ञानम् राघवाय प्रदाय देव्या आख्यातम् सर्वमेव सम्पूर्णम् आनुपूर्व्यात् वाचा शशंस
प्रीतस्तेऽहं नरश्रेष्ठ करिष्यामि तव प्रियम्शिरसा धारयिष्यामि शैलराजसुतामहम्
नरश्रेष्ठ अहम् ते प्रीत: तव प्रियम् करिष्यामि अहम् शैलराजसुताम् शिरसा धारयिष्यामि
पुलस्त्यस्य तु तेजस्वी महर्षिर्मानसः सुतःनाम्ना स विश्रवा नाम प्रजापतिसमप्रभः
नाम्ना विश्रवा नाम प्रजापतिसमप्रभः तेजस्वी सः महर्षिः पुलस्त्यस्य मानसः सुतः
तेनाजय्येन मुख्येन राघवेण महात्मनाशपे ते जीवनार्हेण ब्रूहि यन्मनसेच्छासि
अजय्येन मुख्येन जीवनार्हेण महात्मना तेन राघवेण शपे मनसा यत् इच्छसि ब्रूहि
ततः कृत्वा महानादं सा वै लङ्का भयावहम्तलेन वानरश्रेष्ठं ताडयामास वेगिता
ततः सा लङ्का भयावहम् महानादम् कृत्वा वेगिता वानरश्रेष्ठम् तलेन ताडयामास
वर्तमानेतदाघोरेसङ्ग्रामेभृशदारुणे इन्द्रजित्तुरथंत्यक्त्वाहताश्वोहतसारथिः अङ्गदेनमहामायस्तत्रैवान्तरधीयत
तदा घोरे भृशदारुणे सङ्ग्रामे अङ्गदेन हताश्वः हतसारथिः महामायः इन्द्रजित्तु तत्स्रैव अन्तरधीयत
तस्मैदृढतनुःक्रुद्धोहताश्वायविभीषणः वज्रस्पर्शसमान् पञ्चससर्जोरसिसायकान्
दृढतनुः विभीषणः हताश्वाय तस्मै क्रुद्धः उरसि वज्रस्पर्शमान् पञ्च सायकान् ससर्ज
मणिरत्नं सुवर्णं वा गावो यद्वा समुद्यतम्तत्प्रयच्छ नरश्रेष्ठ धरण्या न प्रयोजनम्
नरश्रेष्ठ मणिरत्नम् सुवर्णं वा गाव: यद्वा समुद्यतम् तत् प्रयच्छ धरण्या प्रयोजनं न
विभीषणोऽपिधर्मात्मासहतैर्नैरृतर्षभैः लब्ध्वाकुलधनंराजालङ्कांप्रायान् महायशाः
धर्मात्मा महायशाः राजा विभीषणः कुलधनम् लब्ध्वा तैः नैरृतर्षभैः लङ्काम् प्रायात्
निहतस्य मया सङ्ख्ये शरसंकृत्तमर्मणःसफेनं रुधिरं रक्तं मेदिनी कस्य पास्यति
मया सङ्ख्ये निहतस्य शरसंकृत्तमर्मणः कस्य सफेनम् रक्तम् रुधिरम् मेदिनी पास्यति
यदिदं लोकविद्विष्टमुदाहरथ सङ्गताः नैतन्मनसि वाक्यं मे किल्बिषं प्रतिभाति वः
सङ्गताः लोकविद्विष्टम् यत् इदम् मे वाक्यम् उदाहरथ एतत् वः मनसि किल्बिषम् न प्रतिभाति
तत्सुभीमंमहायुद्धंहरिराक्षससङ्कुलम् प्रबभौशब्दबहुलंशिलापादपसङ्कुलम्
सुभीमम् हरिराक्षससङ्कुलम् शिलापादमसङ्कुलम् शब्दबहुलम् महत् तत् युद्धम् प्रबभौ
स पुत्रान् सम्परिष्वज्यभूषयित्वा च भूषणैः आशीर्भिश्चप्रशस्ताभिःप्रेषयामाससम्युगे
सः पुत्रान् सम्परिष्वज्य भूषणैः भूषयित्वा च प्रशस्ताभिः आशीर्भिः सम्युगे प्रेषयामास
शरत्कालं प्रतीक्षिष्ये स्थितोऽस्मि वचने तवसुग्रीवस्य नदीनां च प्रसादमनुपालयन्
सुग्रीवस्य नदीनां च प्रसादम् अनुपालयन् शरत्कालम् प्रतीक्षिष्ये तव वचने स्थितः अस्मि
पश्यन्निव च तां सीतामपश्यन्मदनार्दितःउवाच राघवो वाक्यं विलापाश्रयदुर्वचम्
मदनार्दितः राघवः ताम् सीताम् अपश्यन् पश्यन्निव विलापाश्रयदुर्वचम् वाक्यम् उवाच
हीनवीर्यमिवाशक्तंपौरुषेणविवर्जितम् भीरुंलघुमिवासत्त्वंविहीनमिवतेजसा विमुक्तमिवमायाभिरस्त्रैरिवबहिष्कृतम् मामवज्ञायदुर्बुद्धेस्वयाबुद्ध्याविचेष्टसे
दुर्बुद्धे अशक्तम् पौरुषेय विवर्जितम् हीनवीर्यमिव भीरुम् असत्त्वम् लघुमिव तेजसा विहीनमिव मायाभिः विमुमिव अस्त्रै: बहिष्कृतम् इव माम् अवज्ञाय स्वया बुद्ध्या विचेष्टसे
स वृद्धस्तरुणीं भार्यां प्राणेभ्योपि गरीयसीम् अपापः पापसङ्कल्पां ददर्श धरणीतलेलतामिव विनिष्कृत्तां पतितां देवतामिव किन्नरीमिव निर्धूतां च्युतामप्सरसं यथामायामिव परिभ्रष्टां हरिणीमिव संयताम्
वृद्ध: अपाप: स: तरुणीम् प्राणेभ्योऽपि गरीयसीम् पापसङ्कल्पाम् विनिष्कृत्ताम् लतामिव पतिताम् देवतामिव निर्धूताम् किन्नरीमिव च्युताम् अप्सरसं यथा परिभ्रष्टाम् मायामिव संयताम् हरिणीमिव भार्याम् ददर्श
विचालयेयुश्शैलेन्द्रान्भेदयेयुस्स्थिरान्द्रुमान्क्षोभयेयुश्च वेगेन समुद्रं सरितां पतिम्
शैलेन्द्रान् विचालयेयु: स्थिरान् द्रुमान् भेदयेयु: वेगेन सरितां पतिम् समुद्रम् क्षोभयेयु:
तस्य लाङ्गूलमाविद्धमात्तवेगस्य पृष्ठतःददृशे गरुडेनेव ह्रियमाणो महोरगः
आत्तवेगस्य तस्य पृष्ठतः अविद्धम् लाङ्गूलम् गरुडेन ह्रियमाणः महोरगः इव ददृशे
सम्यक् प्रतिगृहीतश्च मुनिना तेन राघवःन्यवसत्तां निशामेकां प्राश्य मूलफलानि च
राघवः तेन मुनिना सम्यक् प्रतिगृहीतः मूलफलानि प्राश्य ताम् एकाम् निशाम् न्यवसत्
समावृत्य महीं कृत्स्नां जगाम महती चमूः तेहृष्टवदना स्सर्वे जग्मुर्मारुतरंहसः
महती चमूः कृत्स्नाम् महीम् समावृत्य जगाम मारुतरंहसः ते सर्वे हृष्टवदनाः जग्मु
गुहाश्च विचितास्सर्वास्त्वया याः परिकीर्तिताःविचिताश्च महागुल्मा लताविततसन्तताः
सर्वाः त्वया परिकीर्तिताः याः गुहाः विचिताः लताविततसन्तताः महागुल्माः विचिताः
प्रचचालचवेगेनत्रस्ताचैववसुन्धरा पीड्यमानाबलौघेनतेनसागरवर्चसा
सागरवर्चसा तेन बलौघेन पीड्यमाना वसुन्धरा वेगेन त्रस्ता प्रचचाल
अयोध्याधिपते वीर वैदेहो मिथिलाधिप: स त्वां द्रष्टुं व्यवसितस्सोपाध्यायपुरोहितम्
वीर अयोध्याधिपते मिथिलाधिप: वैदेह: सोपाध्यायपुरोहितम् त्वाम् द्रष्टुम् सः व्यवसित:
तत्र देवास्सगन्धर्वास्सिद्धाश्च परमर्षयःदृष्ट्वा लङ्कां प्रदग्धां तां विस्मयं परमं गताः
तत्र सगन्धर्वाः देवाः सिद्धाश्च परमर्षयः दग्धाम् तां लङ्काम् पुरीम् दृष्ट्वा परमम् विस्मयम् गताः
नीलजीमूतसङ्काशो महाभुजशिरोधरःसिंहसत्त्वगतिः श्रीमान् दीप्त जिह्वाग्रलोचनः
नीलजीमूतसङ्काशः महाभुजशिरोधरः सिंहसत्त्वगतिः श्रीमान् दीप्तजिह्वाग्रलोचनः
युध्यस्वयदिशूरोऽसिरावणात्मजदुर्मते वायुपुत्रंसमासाद्य न जीवन् प्रतियास्यसि
दुर्मते रावणात्मज शूरः असियदि युध्यस्व वायुपुत्रम् समासाद्य जीवन् न प्रतियास्यसि
सागरह्रदसङ्काशात्सुमन्त्रोऽन्तःपुराच्छुभात् निष्क्रम्य जनसम्बाधं ददर्श द्वारमग्रतः
सुमन्त्रः सागरह्रदसङ्काशात् शुभात् अन्तःपुरात् निष्क्रम्य अग्रतः जनसम्बाधम् द्वारम् ददर्श
पश्चिमेनतुरामस्यसुषेणःसहजाम्बवान् आदूरान्मध्यमेगुल्मेतस्थौबहुबलानुगः
सुषेणः सहजाम्बवान् बहुबलानुगः रामस्य पश्चिमेन अदूरात् मध्यमेगुल्मे तस्थौ
तवदूतामहाराजक्षिप्रमर्हन्त्यवेक्षितुम् उपप्रदानंसान्त्वंवाभेदोवात्रप्रयुज्यताम्
महाराज: तव: दूताः क्षिप्रम् अवेक्षितुम् अर्हन्ति: उपप्रदानम् सान्त्वंवा: भेदोवा: अत्रप्रयुज्यताम्
महोत्पातानिमान्सर्वानुत्थितान्घोरदर्शनान् न चिन्तयाम्यहं वीर्याद्बलवान्दुर्बलानिव
उत्थितान् घोरदर्शनान् इमान् महोत्पातान् सर्वान् अहम् वीर्यात् बलवान् दुर्बलानिव न चिन्तयामि
यस्यविक्रममाणस्यशक्रस्येवपराक्रमः एषगन्धर्वकन्यायामुत्पन्नःकृष्णवर्त्मनः तदादेवासुरेयुद्धेसाह्यार्थंत्रिदिवौकसाम्
विक्रममाणस्य: यस्य: पराक्रमः शक्रस्येव: एषः गन्धर्वकन्याम् कृष्णवर्त्मना: तदा: देवासुरेयुद्धे: त्रिदिवौकसाम् साह्वार्थम् उत्पन्नः
तेरावणवधंदृष्टवादेवगन्धर्वदानवाः जग्मुस्स्वैस्वैर्विमानैस्तेकथयन्तश्शुभाःकथाः
ते देवगन्धर्वदानवाः रावणवधम् दृष्टवा ते शुभाः कथाः कथयन्तः स्वैःस्वैः विमानैः जग्मुः
प्रास्पोटयंश्च पुच्छानि सन्निजग्मु: पदान्यपि भुजावनिक्षिप्य शैलांश्च द्रुमानन्ये बभञ्जिरे
पुच्छानि प्रास्पोटयन् पदानि सन्निजग्मु: अपि अन्ये भुजान् विक्षिप्य शैलांश्च द्रुमान् बभञ्जिरे
शार्दूल यदि सा दृष्टा प्रिया चन्द्रनिभाननामैथिली मम विस्रब्धं कथयस्व न ते भयम्
शार्दूल चन्द्रनिभानना प्रिया सा मैथिली दृष्टा यदि विस्रब्धम् मम कथयस्व ते भयम् न
पश्यतांवानरेन्द्राणांराघवस्यापिपश्यतः दर्शनाद्राक्षसेन्द्रस्यसुग्रीवस्सहसोत्थितः
सुग्रीवः राक्षसेन्द्रस्य दर्शनात् वानरेन्द्राणाम् पश्यताम् राघवस्यापि पश्यतः सहसा उत्थितः
विदितौ नौ गुणा विद्वंत्सुग्रीवस्य महात्मनःतमेव चाऽवां मार्गावस्सुग्रीवं प्लवगेश्वरम्
विद्वन् महात्मनः सुग्रीवस्य गुणाः नौ विदितौ अवाम् ल्पवगेश्वरम् तमेव मार्गावः
राजसूयाश्वमेधैश्च वह्निर्येनाभितर्पितःदक्षिणाश्च तथोत्सृष्टा गावश्शतसहस्रशः तपसा सत्यवाक्येन वसुधा येन पालितास्त्री हेतोस्तस्य पुत्रोऽयं रामस्त्वां शरणं गतः
येन राजसूयाश्वमेधैश्च वह्निः अभितर्पितः तथा शतसहस्रशः गावः दक्षिणाः उत्सृष्टाः येन तपसा सत्यवाक्येन वसुधा पालिता तस्य पुत्रः अयं रामः स्त्री हेतोः शरणम् समागतः
महार्हक्षौमसंवीतं रक्तचन्दनरूषितम्स्वानुलिप्तं विचित्राभिर्विविधाभिश्च भक्तिभिः
महार्हक्षौमसंवीतम् रक्तचन्दनरूषितम् विचित्राभिः विविधाभिश्च भक्तिभिः स्वानुलिप्तम्
तस्मान्माता पिता चेति राम सज्जेत यो नरःउन्मत्त इव स ज्ञेयो नास्ति कश्चिद्धि कस्यचित्
राम तस्मात् यः नरः माता पिता चेति सज्जेत सः उन्मत्त इव सः ज्ञेयः कश्चित् कस्य चित् नास्ति हि
सुकेतोरपि धर्मात्मा देवरातो महाबल:देवरातस्य राजर्षेर्बृहद्रथ इति स्मृत:
सुकेतो: अपि धर्मात्मा महाबल: देवरात: राजर्षे: देवरातस्य बृहद्रथ इति स्मृत:
न च मे भविता तत्र कश्चित्पथि परिश्रमःपृष्ठतस्तव गच्छन्त्या विहारशयनेष्विव
तव पृष्ठतः गच्छन्त्याः मे तत्र पथि विहारशयनेष्विव कश्चित् परिश्रमः न भविता
सुरम्यमासाद्य तु चित्रकूटं नदीं च तां माल्यवतीं सुतीर्थाम्ननन्द हृष्टो मृगपक्षिजुष्टां जहौ च दुखं पुरविप्रवासात्
सुरम्यम् चित्रकूटम् आसाद्य सुतीर्थाम् मृगपक्षिजुष्टाम् ताम् माल्यवतीं नदीं च हृष्ट: ननन्द पुरविप्रवासात् दुखम् जहौ च
तेनविद्धाश्चहरयोनिहताश्चगतासवः बभूवुःशतशस्तत्रपतिताधरणीतले
तेन विद्धाः हरयः निहताः गतासवः शतशः तत्र धरणीतले पतिताः बभूवुः
सा च कामैः प्रलोभ्यन्ती भक्ष्यै:भोज्यैश्च मैथिलीनभोक्ष्यति महाभागा दुःखे मग्ना यशस्विनी
महाभागा यशस्विनी दुःखे मग्ना न भोक्ष्यति सा च कामैः प्रलोभ्यन्ती भक्ष्यै: भोज्यैश्च मैथिली
तांरात्रिमुषितास्तत्रसुवेलेहरिपुङ्गवाः लङ्कायांददृशुर्वीरावनान्युपवनानिच
वीराः हरिपुङ्गवाः तत्र सुवेले ताम् रात्रिम् उषिताः लङ्कायाम् वनानि उपवनानिच ददृशः
क्रतुल्यपराक्रान्तं वृष्टवेवोपरतं घनम्नर्दन्तं नर्दतां भीमं शूरं शूरेण पातितम् शार्दूलेनामिषस्यार्थे मृगराजं यथाहतम्
शक्रतुल्यपराक्रान्तम् वृष्टवा उपरतम् घनम् इव नर्दन्तम् नर्दताम् भीमम् शूरम् शूरेण पातितम् आमिषस्यार्थे शार्दूलेन आहतम् मृगराजं यथा
अहं तात यथाकालमामिषार्थी खमाप्लुतःमहेन्द्रस्य गिरेर्द्वारमावृत्य सुसमास्थितः
तात अहम् आमिषार्थी यथाकालम् महेन्द्रस्य गिरेः द्वारम् आवृत्य सुसमास्थितः
सा श्रुत्वा वचनं तस्य कृत्वा रूपमनुत्तमम्लोभयामास ललिता विश्वामित्रं शुचिस्मिता
सा तस्य वचनम् श्रुत्वा अनुत्तमम् रूपम् कृत्वा ललिता शुचिस्मिता विश्वामित्रम् लोभयामास
एवं विलपमानस्य दुःखार्तस्य महात्मनःमोहाच्च शोकसम्रोधाद्बभूव लुलितं मनः
एवम् विलपमानस्य दुःखार्तस्य महात्मनः मनः मोहाच्च शोकसम्रोधात् लुलितम् बभूव
स वानरान् सप्तशतानिवीरःप्रासेनदीप्तेनन्वििर्बिभेद एकःक्षणेनेन्द्ररिपुर्महात्माजघानसैन्यंहरिपुङ्गवानाम्
वीरः महात्मा सः एकः दीप्तेन प्रासेन क्षणेन सप्तशतानि वानरान् वनिर्बिभेद इन्द्ररिपुः हरिपुङ्गवानाम् सैन्यम् जघान
प्रसीद देवि रामोमेत्वद्दत्तं राज्यमव्यम् लभतामसितापाङ्गे यशः परमवाप्नु हि
देवि प्रसीद रामः त्वद्दत्तम् मे राज्यम् लभताम् असितापाङ्गे परम् यशः अवाप्नुहि
तस्यच्छिद्राणिमार्गस्वस्वच्छिद्राणिचलक्ष्य चक्षुषाधनुषायत्ना प्रक्षात्मानंसमाहितः
तस्य छिद्राणि मार्गस्व स्वच्छिद्राणि लक्ष्य समाहितः चक्षुषा धनुषा यत्ना आत्मानम्
कोसलो नाम मुदितस्स्फीतो जनपदो महान् निविष्टस्सरयूतीरे प्रभूतधनधान्यवान्
प्रभूतधनधान्यवान् मुदित: स्फीत: कोसलो नाम महान् जनपद: सरयूतीरे निविष्ट:
पूर्वमेव मया सृष्टो जाम्बवानृक्षपुङ्गव:जृम्भमाणस्य सहसा मम वक्त्रादजायत
जाम्बवान् ऋक्षपुङ्गव: पूर्वमेव मया सृष्ट: जृम्भमाणस्य मम वक्त्रात् सहसा अजायत
विभीषणवच्श्रुत्वारावणिःक्रोधमूर्छितः अब्रवीत्परुषंवाक्यंवेगेनाभ्युत्पपात च
विभीषणवचः श्रुत्वा रावणिः क्रोधमूर्छितः परुषम् वाक्यम् अब्रवीत् वेगेन अभ्युत्पपात च
स समृद्धां मया सार्धमयोध्यां गच्छ राघवअभिषेचयचात्मानं कुलस्यास्य भवाय नः
राघव सः मया सार्धम् समृद्धाम् अयोध्याम् गच्छ नः अस्य कुलस्य भवाय आत्मानम् अभिषेचय
समुत्पतितमेघस्य वीचिमालाकुलस्य च विशेषो न द्वयोरासीत्सागरस्याम्बरस्य च
समुत्पतितमेघस्य सागरस्य वीचिमालाकुलस्य अम्बरस्य द्वयोः विशेषः नासीत्
स सुतै: कृतगोदानैर्वृतस्तु नृपतिस्तदालोकपालैरिवाभाति वृत: स्सौम्य: प्रजापति:
कृतगोदानै: सुतै: वृत: स: नृपति: तदा लोकपालै: वृत: सौम्य: प्रजापतिरिव आभाति
नद्यस्समुद्वाहितचक्रवाकास्तटानि शीर्णान्यपवाहयित्वादृप्ता नवप्राभृतपूर्णभोगाः द्रुतं स्वभर्तारमुपोपयान्ति
समुद्वाहितचक्रवाकाः दृप्ताः नद्यः शीर्णानि तटानि अपवाहयित्वा नवप्राभृतपूर्णभोगाः स्वभर्तारम् द्रुतम् उपोपयान्ति
भर्तुः किल परित्यागो नृशंसः केवलं स्त्रियाःस भवत्या न कर्तव्यो मनसाऽपि विगर्हितः
स्त्रियाः भर्तुः परित्यागः केवलम् नृशंसः किल विगर्हितः सः भवत्या मनसापि न कर्तव्यः
यज्ञीयं च कृतं राजन् पुरुषैस्सुसमाहितै:निर्यातु च भवान्यष्टुं यज्ञायतनमन्तिकात्
राजन् सुसमाहितै: पुरुषै: यज्ञीयम् कृतम् भवान् यष्टुम् अन्तिकात् यज्ञायतनम् निर्यातु
स पूरयन्खं च महीं च साचलां तुरङ्गमातङ्गमहारथस्वनैःबलैस्समेतैस्सहि तोरणस्थितं समर्थमासीनमुपागमत्कपिम्
सः तुरङ्गमातङ्गमहारथस्वनैः खं च साचलाम् महीं च पूरयन् समेतैः बलैः सह तोरणस्थितम् समर्थम् आसीनम् महाकपिम् उपागमत्
छत्रंतस्य च जग्राहशत्रघ्नःपाण्डुरंशुभम् श्वेतं च वालव्यजनंसुग्रीवोवानरेश्वरः अपरंचन्द्रसङ्काशंराक्षसेन्द्रोविभीषणः
शत्रुघ्नः तस्य पाण्डुरम् शुभम् छत्रम् जग्राह वानरेश्वरः सुग्रीवः श्वेतम् वालव्यजनम् राक्षसेन्द्रः विभीषणः चन्द्रसङ्काशम् अपरंच
ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिःआजघान खरो रामं तोत्रैरिव महाद्विपम्
ततः खरः नालीकनाराचैः तीक्ष्णाग्रैः विकर्णिभिः रामम् तोत्रैः महाद्विपमिव आजघान
तत: प्रीतमनास्तेन विश्वस्तस्स महाकपि: किष्किन्धां रामसहितो जगाम च गुहां तदा
तत: तेन प्रीतमना: स महाकपि: विश्वस्त: च रामसहित: तदा गुहाम् किष्किन्धाम् जगाम
यमस्य वा मां विषयं गतामितोनिशाम्य कुब्जे प्रतिवेदयिष्यसिवनं गते वा सुचिराय राघवेसमृद्धकामो भरतो भविष्यति
कुब्जे निशाम्य माम् इत: यमस्य विषयम् गताम् प्रतिवेदयिष्यसि वा राघवे वनम् गते भरत: समृद्धकाम: भविष्यति वा
यथा त्वया कृतं कर्म भीरुणा लोकगर्हितम् तस्कराचरितो मार्गो नैव वीरनिषेवितः
भीरुणा त्वया यथा लोकगर्हितम् कर्म कृतम् तस्कराचरितः मार्गः वीरनिषेवितः नैव
हेमपुष्करसञ्छन्नं तस्मिन् वैखानसं सरःतरुणादित्यसङ्काशैर्हंसैर्विचरितं शुभैः
तत्र हेमपुष्करसञ्छन्नम् तरुणादित्यसङ्काशैः शुभैः हंसैः विचरितम् वैखानसम् सरः
एवमुक्ता तु धर्मज्ञैर्वानरैस्तैस्स्वयंप्रभा प्रत्युवाच ततस्सर्वानिदं वानरपुङ्गवान्
तैः वानरैः एवम् उक्ताः धर्मज्ञौः स्वयंप्रभा ततः सर्वान् वानरपुङ्गवान् इदम् प्रत्युवाच
दरिद्राय द्विजायाथ हस्ताभरणमुत्तमम्कस्मैचिद्याचमानाय ददौ राघवनन्दन:
अथ राघवनन्दन: याचमानाय कस्मैचित् दरिद्राय द्विजाय उत्तमम् हस्ताभरणम् ददौ
तदिदं न विभात्यद्य विहीनं तेन धीमताव्योमेव शशिना हीनमप्च्छुष्क इव सागरः
धीमता तेन विहीनम् तत् इदम् अद्य शशिना हीनम् व्योमेव अप्च्छुष्कः सागरः इव न विभाति
प्रहस्तम्वधीन्नीलःकुम्भकर्णंतुराघवः लक्ष्मणोरावणसुतंस्वयंरामस्तुरावणम्
नीलः प्रहस्तम् अवधीत् राघवः रामः कुम्भकर्णम् रावणम् स्वयम् लक्ष्मणः रावणसुतम्
स लम्बशिखरे लम्बे लम्बतोयदसन्निभेसत्त्वमास्थाय मेधावी हनुमान् मारुतात्मजः निशि लङ्कां महासत्त्वो विवेश कपिकुञ्जरःरम्यकाननतोयाढ्यां पुरीं रावणपालिताम्
मेधावी मारुतात्मजः महासत्त्वः कपिकुञ्जरः सः हनुमान् लम्बशिखरे लम्बतोयदसन्निभे लम्बे सत्त्वम् आस्थाय रम्यकाननतोयाढ्याम् रावणपालिताम् लङ्कां पुरीम् निशि विवेश
दूतोऽहमिति विज्ञेयो राघवस्यामितौजसःश्रूयतां चापि वचनं मम पथ्यमिदं प्रभो
अहम् अमितौजसः राघवस्य दूतः इति विज्ञेयः प्रभो पथ्यम् इदम् मम वचनम् श्रूयतां चापि
पुनरेवाङ्गदः प्राह तान्हरीन्हरिसत्तमःसर्वे बलवतां श्रेष्ठा भवन्तो दृढविक्रमाः व्यपदेश्य कुले जाताः पूजिताश्चाप्यभीक्ष्णशः
हरिसत्तमः अङ्गदः तान् हरीन् पुनरेव प्राह भवन्तः सर्वे बलवताम् श्रेष्ठाः दृढविक्रमाः व्यपदेशकुले जाताः अभीक्ष्णशः पूजिताश्च
व्यूढेनेवसुघोरेणपूर्वद्वारात्सनिर्ययौ गजयूथनिकाशेनबलेनमहतावृतः
सः व्यूढेनेव सुघोरेण गजयूथनिकाशेन महता बलेन वृतः पूर्वद्वारात् निर्ययौ
राक्षसोऽसीतिहरयोहरिश्चाऽसीतिराक्षसाः अन्योन्यंसमरेजघ्नुस्तस्मिंस्तमसिदारुणे
दारुणे तस्मिन् तमसि राक्षसःअसि इति हरयः हरिश्च असि इति राक्षसाः समरे अन्योन्यम् जघ्नुः
भिन्नमर्यादनिर्लज्ज चारित्रेष्वनवस्थित दर्पान्मृत्युमुपादायशूरोऽहमितिमन्यसे
भिन्नमर्याद निर्लज्ज चारित्रे अनवस्थित दर्पात् मृत्युम् उपादाय अहम् शूरः इति मन्यसे
अभ्यतीत्य ततोऽपश्यदन्तःपुरमुदारधीःततस्तद्भरतश्श्रीमानाविवेशानिवारितः
उदारधीः अभ्यतीत्य ततः अन्तःपुरम् अपश्यत् ततः श्रीमान् भरतः अनिवारितः तत् आविवेश
निशाचराणामधिपोऽनुजस्य विभीषणस्योत्तमवाक्यमिष्टम्जग्राह बुद्ध्या सुरलोकशत्रु र्महाबलो राक्षसराजमुख्यः
निशाचराणाम् सुरलोकशत्रुः महाबलः राक्षसराजमुख्यः अनुजस्य विभीषणस्य इष्टम् उत्तमवाक्यम् बुद्ध्या जग्राह
ततः कृतार्थाः सहितास्सबान्धवाःमयाऽर्चितास्सर्वगुणैर्मनोरमैःचरिष्यथोर्वीं प्रति शान्तशत्रवस्सहप्रिया भूतधराः प्लवङ्गमाः
भूतधराः प्लवङ्गमाः ततः कृतार्थाः सहिताः सबान्धवाः मया मनोरमैः सर्वगुणैः अर्चिताः शान्तशत्रवः सहप्रियाः उर्वीम् प्रति चरिष्यथ
विमानैर्बहुभिर्लङ्कासङ्कीर्णाभुविराजते विष्णोःपदमिवाकाशंछादितंपाण्डुभिर्घनैः
भुवि राजते लङ्का बहुभि विमानैः सङ्कीर्णा विष्णोः पदम् आकाशम् पाण्डुभिः घनैः छादितम् इव
आसिञ्चन् सलिलैश्चैनंपद्मोत्पलसुगन्धिभिः प्रदहन्तमानासाद्यंसहसाग्निमिवोद्यतम्
सहसा उद्यतम् प्रदहन्तम् अग्निमिव अनासाद्यम् एनम् पद्मोत्पलसुगन्धिभिः सलिलैः असिञ्चन्
कःपुमांस्तुकुलेजातस्स्त्रयंपरगृहाषिताम् तेजस्वीपुनरादद्यात्सुहृल्लेख्येनचेतसा
कुले जातः तेजस्वी कःपुमान् परगृहोषिताम् स्त्रियम् सुहृल्लेख्येन चेतसा पुनः अदत्यात्
End of preview. Expand in Data Studio
README.md exists but content is empty.
Downloads last month
13

Collection including sanganaka/ramayana-anvaya